घोरकष्टोधरणस्तोत्रम्
।।घोरकष्टोधरणस्तोत्रम्।। श्रीपादश्रीवल्लभ त्वं सदैव, श्रीदत्तास्मान्पाहि देवाधिदेव । भावग्राह्य क्लेशहारिन्सुकीर्ते, घोरात्कष्टादुध्दरास्मान्नमस्ते ।।१।। त्वं नो माता त्वं पिताप्तोधिपस्त्वं, त्राता योगक्षेमकृत्सदगुरुस्त्वम् । त्वं सर्वस्वं नः प्रभो विश्र्वमूर्ते घोरात्कष्टादुध्दरास्मान्नमस्ते ।।२।। पापं तापं व्याधिमाधिं च…
