सोsहं हंसः पक्षाभ्यां संचरसि ह्याकाशे । वासस्ते खलु लोके सत्ये, क्रीडा तव मानसे ।।धृ।।
जय जय श्रीमदगुरुवरस्वामीनपरमात्मनहंसा । वासुदेवानंदसरस्वति आरती तदहंsसा ।।
मुक्ताहारो ब्रह्मवाहको वैराटरुपधर । भक्तराजहृद्ध्वांत तमोहृत्स्वीकुरु मां च हर।।२।।
पक्षस्यैकेवातेनैते भीताः काकाद्याः । पलायितास्ते द्रुतं प्रभावादभवंति चादृश्याः ।।३।।
जय जय श्रीमदगुरुवरस्वामीनपरमात्मनहंसा । वासुदेवानंदसरस्वति आरती तदहंsसा ।।
एवं सति खलु बालस्तेsहं ग्रसितः कामाद्यैः । मातस्त्वरयाचोध्दर कृपया प्रेषितशांत्याद्यैः
दासस्ते नरसिंहसरस्वती याचे श्रीचरणम् । भक्तिश्रध्देवासस्ते हृदि सततं मे शरणम् ।।५।।
जय जय श्रीमदगुरुवरस्वामीनपरमात्मनहंसा । वासुदेवानंदसरस्वति आरती तदहंsसा ।।