दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माऽवतु ॥ १ ॥
दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वारक्षाकरं वन्दे स्मर्तृगामी स माऽवतु ॥ २ ॥
शरणागतदीनार्तपरित्राणपरायणम् ।
नारायणं विभुं वंदे स्मर्तृगामी स माऽवतु ॥ ३ ॥
सर्वानर्थहरं देवं सर्वमंगलमंगलम् ।
सर्वक्लेशहरं वन्दे स्मर्तुगामी माऽवतु ॥ ४ ॥
शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥ ५ ॥
सर्वरोगप्रशमनं सर्वपीडा निवारणम् ।
तापप्रशमनं वन्दे स्मर्तृगामी स माऽवतु ॥ ६ ॥
ब्रह्यण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
आपदुद्धरणं वन्दे स्मर्तृगामी स माऽवतु ॥ ७ ॥
जन्मसंसारबन्धघ्नं स्वरुपानंददायकम् ।
निःश्रेयसप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥ ८ ॥
जयलाभयशः कामदातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत्स कृती भवेत् ॥ ९ ॥

॥ इति श्रीमद् परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं जयलाभायशः प्राप्ति स्तोत्रं संपूर्णम् ॥

Leave a Reply

five × 1 =