स्वांशेनेदं ततं येन स त्वमीशात्रिनन्दन।।

मुञ्चविपदभ्योsमुं रक्ष रक्ष हरे शिशुम् ।।१।।

प्रातर्मंध्यन्दिने सायं निशि चाप्यव सर्वतः।।

दुर्दृग्गोधूलिभूतार्तिगृहमातृग्रहादिकान् ।।२।।

छिन्धि छिन्ध्यखिलारिष्टं कमण्डल्वरिशूलघृक्।।

त्राहि त्राहि विभो नित्यं त्वद्रक्षालंकृतं शिशुम् ।।३।।

सुप्तं स्थितं चोषविष्टं गच्छंतं क्वापि सर्वतः ।।

भो देवावश्विनावेष कुमारो वामनामयः ।।४।।

दीर्घायुरस्तु सततं सहओजोबलान्वितः

इति श्री प.प.श्रीवासुदेवानंद सरस्वती विरचिता।

श्री दत्तपुरान्तर्गत बालाशिषः स्तोत्रम् संपूर्णम्।

Leave a Reply

four × 5 =