श्रीपाद वल्लभ गुरोः वदनारविन्दं
वैराग्य दीप्ति परमोज्वलमद्वितीयम् |
मन्दस्मितं सुमधुरं करुणार्द्र नेत्रं
संसार – ताप – हरणं सततं स्मरामि ||

श्रीपाद वल्लभ गुरोः करकल्पवृक्षं
भक्तेष्ट – दान – निरतं रिपुसंक्षयं वै |
संस्मरणमात्र चिति – जागरणं सुभद्रं
संसार – भीति – शमनं सततं भजामि ||

श्रीपाद वल्लभ गुरोः परमेश्वरस्य
योगीश्वरस्य शिवशक्ति समन्वितस्य |
श्री पर्वतस्य शिखरं खलु सन्निविष्टं
त्रैलोक्य – पावन – पदाब्जमहं नमामि ||

|| श्रीपादराजमं शरणं प्रपद्ये ||

Leave a Reply

three + 14 =